17/10/2025
॥श्रीसत्यनारायणाष्टकम्॥
आदिदेवं जगत्कारणं श्रीधरं
लोकनाथं विभुं व्यापकं शंकरम् ।
सर्वभक्तेष्टदं मुक्तिदं माधवं
सत्यनारायणं विष्णुमीशम्भजे ॥१॥
सर्वदा लोककल्याणपारायणं
देवगोविप्ररक्षार्थसद्विग्रहम् ।
दीनहीनात्मभक्ताश्रयं सुन्दरम्
सत्यनारायणं विष्णुमीशम्भजे ॥२॥
दक्षिणे यस्य गंगा शुभा शोभते
राजते सा रमा यस्य वामे सदा ।
यः प्रसन्नाननो भाति भव्यश्च तं
सत्यनारायणं विष्णुमीशम्भजे ॥३॥
संकटे संगरे यं जनः सर्वदा
स्वात्मभीनाशनाय स्मरेत् पीडितः ।
पूर्णकृत्यो भवेद् यत्प्रसादाच्च तं
सत्यनारायणं विष्णुमीशम्भजे ॥४॥
वाञ्छितं दुर्लभं यो ददाति प्रभुः
साधवे स्वात्मभक्ताय भक्तिप्रियः ।
सर्वभूताश्रयं तं हि विश्वम्भरं
सत्यनारायणं विष्णुमीशम्भजे ॥५॥
ब्राह्मणः साधुवैश्यश्च तुंगध्वजो
येऽभवन् विश्रुता यस्य भक्त्यामराः ।
लीलया यस्य विश्वं ततं तं विभुं
सत्यनारायणं विष्णुमीशम्भजे ॥६॥
येन चाब्रम्हाबालतृणं धार्यते
सृज्यते पाल्यते सर्वमेतज्जगत् ।
भक्तभावप्रियं श्रीदयासागरं
सत्यनारायणं विष्णुमीशम्भजे ॥७॥
सर्वकामप्रदं सर्वदा सत्प्रियं
वन्दितं देववृन्दैर्मुनीन्द्रार्चितम् ।
पुत्रपौत्रादिसर्वेष्टदं शाश्वतं
सत्यनारायणं विष्णुमीशम्भजे ॥८॥
फलश्रुति
अष्टकं सत्यदेवस्य भक्त्या नरः
भावयुक्तो मुदा यस्त्रिसन्ध्यं पठेत् ।
तस्य नश्यन्ति पापानि तेनाग्निना
इन्धनानीव शुष्काणि सर्वाणि वै ॥९॥
॥श्रीसत्यनारायणाष्टकम् सम्पूर्णम्॥