अष्टलक्ष्मी आराधना

अष्टलक्ष्मी आराधना जय माँ अष्टलक्ष्मी
(3)

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदांहस्ताभ्यां अभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्भक्ताभीष्टफलप्रदां हरिहरब्...
20/09/2025

वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां
हस्ताभ्यां अभयप्रदां मणिगणैर्नानाविधैर्भूषिताम्
भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां
पार्श्वे पंकजशंखपद्मनिधिभिर्युक्तां सदा शक्तिभिः

॥ श्री विष्णोः षोडशनामस्तोत्रम् ॥औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्।शयने पद्मनाभं च विवाहे च प्रजापतिम्॥१॥युद्धे चक...
18/09/2025

॥ श्री विष्णोः षोडशनामस्तोत्रम् ॥

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्।
शयने पद्मनाभं च विवाहे च प्रजापतिम्॥१॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्।
नारायणं तनुत्यागे श्रीधरं प्रियसङ्गमे॥२॥

दुःस्वप्ने स्मर गोविन्दं सङ्कटे मधुसूदनम्।
कानने नारसिंहं च पावके जलशायिनम्॥३॥

जलमध्ये वराहं च पर्वते रघुनन्दनम्।
गमने वामनं चैव सर्वकार्येषु माधवम्॥४॥

षोडशैतानि नामानि प्रातरूत्थाय यः पठेत्।
सर्वपापविर्निमुक्तो विष्णुलोके महीयते॥५॥

॥ इति श्री विष्णोः षोडशनामस्तोत्रं सम्पूर्णम् ॥

॥श्री सूक्तम्॥॥ वैभव प्रदाता श्री सूक्त ॥हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम्।चन्द्रां हिरण्मयीं लक्ष्मीं जातवेद...
17/09/2025

॥श्री सूक्तम्॥

॥ वैभव प्रदाता श्री सूक्त ॥

हरिः ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्र​जाम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्॥२॥

अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम्॥३॥

कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम्॥४॥

चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्।
तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥५॥

आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः।
तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः॥६॥

उपैतु मां देवसखः कीर्तिश्च मणिना सह।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे॥७॥

क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्।
अभूतिमसमृद्धिं च सर्वां निर्णुद मे गृहात्॥८॥

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम्॥९॥

मनसः काममाकूतिं वाचः सत्यमशीमहि।
पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः॥१०॥

कर्दमेन प्रजाभूता मयि सम्भव कर्दम।
श्रियं वासय मे कुले मातरं पद्ममालिनीम्॥११॥

आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे।
नि च देवीं मातरं श्रियं वासय मे कुले॥१२॥

आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१३॥

आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह॥१४॥

तां म आवह जातवेदो लक्ष्मीमनपगामिनीम्।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान् विन्देयं पुरुषानहम्॥१५॥

यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम्।
सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत्॥१६॥

पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे।
त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम्॥१७॥

अश्वदायि गोदायि धनदायि महाधने।
धनं मे जुषतां देवि सर्वकामांश्च देहि मे॥१८॥

पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवे रथम्।
प्रजानां भवसि माता आयुष्मन्तं करोतु माम्॥१९॥

धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः।
धनमिन्द्रो बृहस्पतिर्वरुणं धनमश्नुते॥२०॥

वैनतेय सोमं पिब सोमं पिबतु वृत्रहा।
सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः॥२१॥

न क्रोधो न च मात्सर्य न लोभो नाशुभा मतिः।
भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा॥२२॥

वर्षन्तु ते विभावरि दिवो अभ्रस्य विद्युतः।
रोहन्तु सर्वबीजान्यव ब्रह्म द्विषो जहि॥२३॥

पद्मप्रिये पद्मिनि पद्महस्ते पद्मालये पद्मदलायताक्षि।
विश्वप्रिये विष्णु मनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व॥२४॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी।
गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया॥२५॥

लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैस्स्नापिता हेमकुम्भैः।
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता॥२६॥

लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरङ्गधामेश्वरीम्।
दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम्॥२७॥

श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधराम्।
त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम्॥२८॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती।
श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा॥२९॥

वरांकुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्।
बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं त्वाम्॥३०॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थ साधिके।
शरण्ये त्र्यम्बके देवि नारायणि नमोऽस्तु ते॥३१॥

सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे।
भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्॥३२॥

विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्।
विष्णोः प्रियसखीं देवीं नमाम्यच्युतवल्लभाम्॥३३॥

महालक्ष्मी च विद्महे विष्णुपत्नीं च धीमहि।
तन्नो लक्ष्मीः प्रचोदयात्॥३४॥

श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महियते।
धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः॥३५॥

ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः।
भयशोकमनस्तापा नश्यन्तु मम सर्वदा॥३६॥

य एवं वेद ॐ महादेव्यै च विद्महे विष्णुपत्नीं च धीमहि।
तन्नो लक्ष्मीः प्रचोदयात् ॐ शान्तिः शान्तिः शान्तिः॥३७॥

PLEASE SUBSCRIBE
15/09/2025

PLEASE SUBSCRIBE

ॐ अष्टलक्ष्मयै नमो नमः आवाहनं न जानामि, न जानामि विसर्जनम् ।। पूजा-कर्म न जानामि क्षमस्व परमेश्वरि।। मंत्र-हीनं, क...

॥श्री लक्ष्मी सुप्रभातम्॥मातः आकर्षकवदनाम्बुजनिर्जिताब्जेक्षीरब्धिजे सकललोकपवित्रमूर्ते।अर्त्प्रपन्नजनवंदितपादपद्मेश्री ...
15/09/2025

॥श्री लक्ष्मी सुप्रभातम्॥

मातः आकर्षकवदनाम्बुजनिर्जिताब्जे
क्षीरब्धिजे सकललोकपवित्रमूर्ते।
अर्त्प्रपन्नजनवंदितपादपद्मे
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१॥

सद्योविकास कुसुमेषु सुगंधमत्ताः
गायन्ति मातरमितं भ्रमरा यशस्ते।
तन्मञ्जुनादपरिबोधितदिव्यदेवी
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२॥

स्नात्वामलः सुरगजः सुरदीर्घिकायन
शुन्दोद्धृतब्जविल्सद्वदनेन तुर्णम्।
सन्तिष्ठते गृहमुखे तव भक्तवर्यः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥३॥

शोभां त्वैव वदनस्य सदा नवीनां
संप्राप्य भानुरिह लोकतमप्रहंता।
प्राचीं दिशं भजति सोऽपि त्वैव भक्तः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥४॥

पद्मानि शांति रुचिराणि मनोहरानि
वायुस्तथा वहति मंदगतिः प्रभाते।
चेतोह्रिह सोमप्रकृतेस्तवेयं
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥५॥

पूर्वाद्रिसानुशिखरत् समधिष्ठितोऽयं
भानुः क्षणं लसति देवी महाप्रकाशः।
त्वन्मूर्तिराजितकिरीटमणिप्रकाशः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥६॥

त्वद्दर्शनार्थमभियान्ति सुरेंद्रमुख्याः
देवास्त्वद्यपदपङ्कजदत्तचित्तः।
अयोज्य तं लसि कर्मचये त्वमेव
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥७॥

प्रत्याग्रपुष्पनिचयं स्वकरैर्गृहीत्वा
त्वत्पूजनाय मनुजा धृतशुभ्रवस्त्राः।
अयान्ति मंदिरमितस्तव भक्तियुक्ताः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥८॥

पद्मप्रिये रुचिरपद्ममुखि स्मितासि
पद्मालये विजितपद्मविभेत्रि तन्वी।
त्वं पाहि नूनमनिशं जनतां भयावहः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥९॥

अम्ब त्वमेव जगतां प्रतिमा रिरिक्षुः
नित्योऽर्पिता लस्सी शाश्वतधर्मगोपत्री।
त्वमाश्रिता जहति दुःखचयं हि भक्ताः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१०॥

मातर्मदीयहृदये सदयं वसाना
मज्जीवनं हि कुरु सार्थकमात्मदीप्त्या।
त्वमाश्रितो भवति नैव विपद्भ्यतः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥११॥

त्वं श्रीहरेर्हृदयमेव सदाऽऽश्रितासि
प्रियं ततो वहसि लोकशुभय मातः।
तत्प्रेममूर्तिर्भयं सदयं तनोषि
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१२॥

प्रेमप्रफुल्लनयनान्तनिर्क्षणेन
श्रीमन् तनोषि जगतां दया दयाब्धे।
वात्सल्यमूर्तिरसि संततलोकमाता
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१३॥

त्वन्नेत्रभानुसुविकासितपद्मतलपो
भानुश्चकास्ति गगणे सततप्रकाशः।
नित्यं नभ्रस्थनलिनी-जलमध्यभागे
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१४॥

मन्दस्मिताङ्कुरविभा-कमनीयशोभः
चन्द्रो विभाति रुचिरो नभसि प्रदीप्त:।
त्वन्मनधास इव भाति हि चन्द्रिकेयन्
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१५॥

त्वन्निर्मलेषु हृदयेषु सदैव रुधा
तत्सम्पदं च सततं द्विगुणां करोषि।
पूर्णता त्वमसि मंगलादेवी मातः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१६॥

जन्मनः सकललोक विशिष्टताः
संपूर्ण मोक्षमपि देवी त्वमेव दत्से।
त्वमाश्रितोऽस्मि वरदायिनी लोकमातः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१७॥

नारायणस्य स्तुतिमहत्स्वरूपे
नारायणि प्रियत्रे कुरु मां कृतार्थम्।
त्वं श्रीहरिप्रियतमसि तदीयचित्ता
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१८॥

नेत्राञ्चलप्रणयवर्षनमत्तचित्तो
नारायणस्तव सदा रमते हृद्ब्जे।
तत्प्रेममूर्तिरसि देवी सदैव मातः
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥१९॥

पश्यत्र देवी मुनिलोकमपि प्रपन्नं
श्रीसूक्तमंत्रजपकोटिपराचित्तम्।
पयस्तमुग्रतपसं तव भक्तिपूतं
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२०॥

पृथ्वी-जलं-तपन-वायु-नभांसि चापि
त्वमाश्रितानि खलु कर्मसु शक्तिकानि।
सर्वं त्वैव महिमेति श्रुतिः समिन्धे
श्री देवी लक्ष्मी सततं भवत् प्रभातम् ॥२१॥

श्रुतयन्तमूर्धनि नात्मानसपद्मपूगे
फुल्लरविन्दनीचये च शिशोश्च हासे।
त्वं निर्मले वसि देवी सदैव चित्ते
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२२॥

लक्ष्मी स्वयं वसि शुद्धधनेऽत्र लोके
धान्ये तथैव विजये स्वप्रक्रमाप्ते।
ज्ञाने च शांतिहिते उत्तमरूपे
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२३॥

सायन्तने वसि निर्मलगोसमूहे
वत्सप्रिये शिशुषु दोहनकर्मसक्ते।
दुग्धेऽपि गोरिह सतां परिपोषरूपा
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२४॥

त्वं पर्वतेषु परम्यशिखिसथलेषु
पुष्पादिकेशु निबिदेशु वनस्थलेषु।
मंदाकिनीषु तटिनीषु जलस्थलेषु
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२५॥

प्राणादिसंयमपरेषु सदा हृदन्ते
नारायणस्मृतिपरेषु च मानवेषु।
मातः सदा लसि बोधमहत्स्वरूपा
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२६॥

त्वमाश्रितो जगति पुण्यफलं समग्रं
संप्राप्नुते तदनु मोक्षपदं ततन्ते।
त्वमाश्रितश्च मधुसूदनमाश्रितः सन्
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२७॥

सम्प्रत्यहो मनुजबुद्धिर्तीव दुष्टा
सम्प्तफलाय कुरुते खलु दुष्टयत्ना।।
संस्कार्य तञ्च जननीव समुद्धरेस्त्वं
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२८॥

न त्वं विना मनुजजन्मफलं जगत्यां
संप्राप्नुयां हि सकलं विकलं स्वशक्तया। (संप्राप्नुयां हि सकलाणि सदा)
तस्मात्त्वमेव परिपाहि दयां कुरुषव
श्री देवी लक्ष्मी भवतत्त्व सुप्रभातम् ॥२९॥

मधुमथनकटाक्षप्रेमभंडाररूपा
सकलविमलसम्पद्भवनरूपा च लक्ष्मीः।
लस्तु मम हृदयब्जे पूर्णबोधात्मना सा
दिष्टु च भुवि सर्वं योग्यमात्यन्तिकं च ॥३०॥

ॐ शांतिः शांतिः शांतिः।

धन, सम्पदा, ऐश्वर्य, विलासिता, सम्पत्ति की देवी, माता लक्ष्मी जी को प्रिय वस्तु, स्थान, व्यक्ति 👇👇👇👇
13/09/2025

धन, सम्पदा, ऐश्वर्य, विलासिता, सम्पत्ति की देवी, माता लक्ष्मी जी को प्रिय वस्तु, स्थान, व्यक्ति 👇👇👇👇

॥ॐ महालक्ष्मी नमो नमः॥
12/09/2025

॥ॐ महालक्ष्मी नमो नमः॥

॥श्री कनकधारा स्तोत्रम्॥
10/09/2025

॥श्री कनकधारा स्तोत्रम्॥

10/02/2025

|| श्री सिद्ध लक्ष्मी स्तोत्र ||

विनियोगः

ॐ अस्य श्री सिद्धलक्ष्मीस्तोत्रमन्त्रस्य हिरण्यगर्भऋषिः अनुष्टुप्छन्दः
श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः श्रीं बीजं ह्रीं शक्तिः क्लीं
कीलकं मम सर्वक्लेशपीडापरिहारार्थं सर्वदुःखदारिद्र्यनाशनार्थं सर्वकार्यसिध्यर्थं
च श्रीसिद्धलक्ष्मीस्तोत्रपाठे विनियोगः ।।

ऋष्यादिन्यास :

ॐ हिरण्यगर्भ ऋषये नमः शिरसि ।।
अनुष्टुप्छन्दसे नमो मुखे ।।
श्रीमहाकालीमहालक्ष्मीमहासरस्वती देवताभ्यो नमो हृदि ।।
श्रीं बीजाय नमो गुह्ये ।।
ह्रीं शक्तये नमः पादयोः ।।
क्लीं कीलकाय नमो नाभौ ।
विनियोगाय नमः सर्वाङ्गेषु ।

करन्यास

ॐ श्रीं सिद्धलक्ष्म्यै अङ्गुष्ठाभ्यां नमः ।
ॐ ह्रीं विष्णुतेजसे तर्जनीभ्यां नमः ।
ॐ क्लीं अमृतानन्दायै मध्यमाभ्यां नमः ।
ॐ श्रीं दैत्यमालिन्यै अनामिकाभ्यां नमः ।
ॐ ह्रीं तेजःप्रकाशिन्यै कनिष्ठिकाभ्यां नमः ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै करतलकरपृष्ठाभ्यां नमः ।

हृदयादि षडङ्गन्यास

ॐ श्रीं सिद्धलक्ष्म्यै हृदयाय नमः ।
ॐ ह्रीं विष्णुतेजसे शिरसे स्वाहा ।
ॐ क्लीं अमृतानन्दायै शिखायै वषट नमः ।
ॐ श्रीं दैत्यमालिन्यै कवचाय हुम् ।
ॐ ह्रीं तेजःप्रकाशिन्यै नेत्रत्रयाय वौषट ।
ॐ क्लीं ब्राह्म्यै वैष्णव्यै रुद्राण्यै अस्त्राय फट ।
ॐ श्रीं ह्रीं क्लीं सिद्धलक्ष्म्यै नमः
तालत्रयं दिग्बंधनं च कुर्यात ।।

ध्यानं

ब्राह्मीं च वैष्णवीं भद्रां षड्भुजां च चतुर्मुखीम् ।
त्रिनेत्रां खड्ग त्रिशूल पद्मचक्र गदाधराम् ।।
पीताम्बरधरां देवीं नानालङ्कार भूषिताम्
तेजःपुञ्जधरीं देवीं ध्यायेद् बालकुमारिकाम् ।।

ॐ कारं लक्ष्मीरूपं तु विष्णुं हृदयमव्ययम् ।
विष्णुमानन्दमव्यक्तं ह्रींकारं बीजरूपिणीम् ।। 1 ।।
क्लीं अमृतानन्दिनीं भद्रां सदात्यानंददायिनीम्
श्रीं दैत्यशमनीं शक्तिं मालिनीं शत्रुमर्दिनीम् ।। 2 ।।
तेजः प्रकाशिनीं देवीं वरदां शुभकारिणीम् ।
ब्राह्मीं च वैष्णवीं रौद्रीं कालिकारूपशोभिनीम् ।। 3 ।।
अकारे लक्ष्मीरुपं तु उकारे विष्णुमव्ययं ।
मकारः पुरुषोऽव्यक्तो देवीप्रणव उच्यते ।। 4 ।।
सूर्यकोटि प्रतीकाशं चन्द्रकोटिसमप्रभं ।
तन्मध्ये निकरं सूक्ष्मं ब्रह्मरुपं व्यवस्थितम ।। 5 ।।
ॐकारं परमानन्दं सदैव सुखसुंदरीं ।
सिद्धलक्ष्मि मोक्षलक्ष्मि आद्यलक्ष्मि नमोऽस्तु ते ।। 6 ।।
सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरी नारायणि नमोऽस्तु ते ।
प्रथमं त्र्यम्बका गौरी द्वितीयं वैष्णवी तथा ।
तृतीयं कमला प्रोक्ता चतुर्थं सुंदरी तथा ।। 7 ।।
पञ्चमं विष्णुशक्तिश्च षष्ठं कात्यायनी तथा ।
वाराही सप्तमं चैव ह्यष्टमं हरिवल्लभा ।। 8 ।।
नवमी खडिगनी प्रोक्ता दशमं चैव देविका ।
एकादशं सिद्धलक्ष्मीर्द्वादशं हंसवाहिनी ।। 10 ।।
एतत्स्तोत्रवरं देव्या ये पठन्ति सदा नराः ।
सर्वापद्भयो विमुच्यन्ते नात्र कार्या विचारणा ।। 11 ।।
एकमासं द्विमासं च त्रिमासं माञ्चतुष्टयं ।
पञ्चमासं च षण्मासं त्रिकालं यः सदा पठेत ।। 12 ।।
ब्राह्मणः क्लेशितो दुःखी दारिद्र्यामयपीडितः ।
जन्मान्तरसहस्त्रोत्थैर्मुच्यते सर्वकिल्बिषैः ।। 13 ।।
दरिद्रो लभते लक्ष्मीमपुत्रः पुत्रवान भवेत् ।
धन्यो यशस्वी शत्रुघ्नो वह्निचॉैरभयेषु च ।। 14 ।।
शाकिनी भूतवेताल सर्पव्याघ्र निपातने ।
राजद्वारे सभास्थाने कारागृह निबन्धने ।। 15 ।।
ईश्वरेण कृतं स्तोत्रं प्राणिनां हितकारकं ।
स्तुवन्तु ब्राह्मण नित्यं दारिद्र्यं न च बाधते ।
सर्वपापहरा लक्ष्मीः सर्वसिद्धिप्रदायिनी ।। 16 ।।

।। इति श्रीब्रह्मपुराणे ईश्वरविष्णु संवान्दे श्रीसिद्धलक्ष्मी स्तोत्रं सम्पूर्णं ।।

Address

Lucknow
226011

Opening Hours

Monday 10am - 7pm
Tuesday 10am - 7pm
Wednesday 10am - 7pm
Thursday 10am - 7pm
Friday 10am - 7pm
Saturday 12am - 8pm
Sunday 12pm - 5pm

Website

Alerts

Be the first to know and let us send you an email when अष्टलक्ष्मी आराधना posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category