17/10/2025
🟧1⃣🪔 श्री महालक्ष्मी कवचम्
🟧2⃣🪔 श्री लक्ष्मी कवचम् तन्त्रोक्त
🟧3⃣🪔 श्री लक्ष्मी कवचम् ब्रहम स्तोत्र
🟧4⃣🪔. विश्वसार तन्त्रोक्तं कमला कवचं
🟧🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
🟧🟧🟧🟧🟧🟧🟧🟧🟧🟧🟧🟧🟧
🟧1⃣🪔 श्री महालक्ष्मी कवचम् 🟧🪔🟧
श्री गणेशाय नमः ।
अस्य श्रीमहालक्ष्मीकवचमन्त्रस्य ब्रह्मा ऋषिः गायत्री छन्दः
महालक्ष्मीर्देवता महालक्ष्मीप्रीत्यर्थं जपे विनियोगः ।
इन्द्र उवाच । समस्तकवचानां तु तेजस्वि कवचोत्तमम् ।
आत्मरक्षणमारोग्यं सत्यं त्वं ब्रूहि गीष्पते ॥ १॥
श्रीगुरुरुवाच । महालक्ष्म्यास्तु कवचं प्रवक्ष्यामि समासतः ।
चतुर्दशसु लोकेषु रहस्यं ब्रह्मणोदितम् ॥ २॥
ब्रह्मोवाच । शिरो मे विष्णुपत्नी च ललाटममृतोद्भवा ।
चक्षुषी सुविशालाक्षी श्रवणे सागराम्बुजा ॥ ३॥
घ्राणं पातु वरारोहा जिह्वामाम्नायरूपिणी ।
मुखं पातु महालक्ष्मीः कण्ठं वैकुण्ठवासिनी ॥ ४॥
स्कन्धौ मे जानकी पातु भुजौ भार्गवनन्दिनी ।
बाहू द्वौ द्रविणी पातु करौ हरिवराङ्गना ॥ ५॥
वक्षः पातु च श्रीर्देवी हृदयं हरिसुन्दरी ।
कुक्षिं च वैष्णवी पातु नाभिं भुवनमातृका ॥ ६॥
कटिं च पातु वाराही सक्थिनी देवदेवता ।
ऊरू नारायणी पातु जानुनी चन्द्रसोदरी ॥ ७॥
इन्दिरा पातु जंघे मे पादौ भक्तनमस्कृता ।
नखान् तेजस्विनी पातु सर्वाङ्गं करूणामयी ॥ ८॥
ब्रह्मणा लोकरक्षार्थं निर्मितं कवचं श्रियः ।
ये पठन्ति महात्मानस्ते च धन्या जगत्त्रये ॥ ९॥
कवचेनावृताङ्गनां जनानां जयदा सदा ।
मातेव सर्वसुखदा भव त्वममरेश्वरी ॥ १०॥
भूयः सिद्धिमवाप्नोति पूर्वोक्तं ब्रह्मणा स्वयम् ।
लक्ष्मीर्हरिप्रिया पद्मा एतन्नामत्रयं स्मरन् ॥ ११॥
नामत्रयमिदं जप्त्वा स याति परमां श्रियम् ।
यः पठेत्स च धर्मात्मा सर्वान्कामानवाप्नुयात् ॥ १२॥
॥ इति श्रीब्रह्मपुराणे इन्द्रोपदिष्टं महालक्ष्मीकवचं सम्पूर्णम्।।
🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩🟩
🟧2⃣🪔 श्री लक्ष्मी कवचम् तन्त्रोक्त 🟧🪔🟧
श्रीगणेशाय नमः ।
ॐ अस्य श्रीलक्ष्मीकवचस्तोत्रस्य, श्रीईश्वरो देवता,
अनुष्टुप् छन्दः, श्रीलक्ष्मीप्रीत्यर्थे पाठे विनियोगः ।
ॐ लक्ष्मी मे चाग्रतः पातु कमला पातु पृष्ठतः ।
नारायणी शीर्षदेशे सर्वाङ्गे श्रीस्वरूपिणी ॥ १॥
रामपत्नी तु प्रत्यङ्गे सदाऽवतु शमेश्वरी।
विशालाक्षी योगमाया कौमारी चक्रिणी तथा ॥ २॥
जयदात्री धनदात्री पाशाक्षमालिनी शुभा ।
हरिप्रिया हरिरामा जयङ्करी महोदरी ॥ ३॥
कृष्णपरायणा देवी श्रीकृष्णमनमोहिनी ।
जयङ्करी महारौद्री सिद्धिदात्री शुभङ्करी ॥ ४॥
सुखदा मोक्षदा देवी चित्रकूटनिवासिनी ।
भयं हरतु भक्तानां भवबन्धं विमुच्यतु ॥ ५॥
कवचं तन्महापुण्यं यः पठेद्भक्तिसंयुतः ।
त्रिसन्ध्यमेकसन्ध्यं वा मुच्यते सर्वसङ्कटात् ॥ ६॥
एतत्कवचस्य पठनं धनपुत्रविवर्धनम् ।
भीतिर्विनाशनञ्चैव त्रिषु लोकेषु कीर्तितम् ॥ ७॥
भूर्जपत्रे समालिख्य रोचनाकुङ्कुमेन तु ।
धारणाद्गलदेशे च सर्वसिद्धिर्भविष्यति ॥ ८॥
अपुत्रो लभते पुत्र धनार्थी लभते धनम् ।
मोक्षार्थी मोक्षमाप्नोति कवचस्य प्रसादतः ॥ ९॥
गर्भिणी लभते पुत्रं वन्ध्या च गर्भिणी भवेत् ।
धारयेद्यपि कण्ठे च अथवा वामबाहुके ॥ १०॥
यः पठेन्नियतं भक्त्या स एव विष्णुवद्भवेत् ।
मृत्युव्याधिभयं तस्य नास्ति किञ्चिन्महीतले ॥ ११॥
पठेद्वा पाठयेद्वाऽपि शृणुयाच्छ्रावयेद्यदि ।
सर्वपापविमुक्तस्तु लभते परमां गतिम् ॥ १२॥
सङ्कटे विपदे घोरे तथा च गहने वने ।
राजद्वारे च नौकायां तथा च रणमध्यतः ॥ १३॥
पठनाद्धारणादस्य जयमाप्नोति निश्चितम् ।
अपुत्रा च तथा वन्ध्या त्रिपक्षं शृणुयाद्यदि ॥ १४॥
सुपुत्रं लभते सा तु दीर्घायुष्कं यशस्विनम् ।
शृणुयाद्यः शुद्धबुद्ध्या द्वौ मासौ विप्रवक्त्रतः ॥ १५॥
सर्वान्कामानवाप्नोति सर्वबन्धाद्विमुच्यते ।
मृतवत्सा जीववत्सा त्रिमासं श्रवणं यदि ॥ १६॥
रोगी रोगाद्विमुच्येत पठनान्मासमध्यतः ।
लिखित्वा भूर्जपत्रे च अथवा ताडपत्रके ॥ १७॥
स्थापयेन्नियतं गेहे नाग्निचौरभयं क्वचित् ।
शृणुयाद्धारयेद्वापि पठेद्वा पाठयेदपि ॥ १८॥
यः पुमान्सततं तस्मिन्प्रसन्नाः सर्वदेवताः ।
बहुना किमिहोक्तेन सर्वजीवेश्वरेश्वरी ॥ १९॥
आद्या शक्तिर्महालक्ष्मीर्भक्तानुग्रहकारिणी ।
धारके पाठके चैव निश्चला निवसेद् ध्रुवम् ॥ २०॥
॥ इति तन्त्रोक्तं लक्ष्मीकवचं सम्पूर्णम् ॥
🟨🟨🟨🟨🟨🟨🟨🟨🟨🟨🟨
🟧3⃣🪔 श्री लक्ष्मी कवचम् ब्रहम स्तोत्र 🟧🪔🟧
शुकं प्रति ब्रह्मोवाच
महालक्ष्म्याः प्रवक्ष्यामि कवचं सर्वकामदम् ।
सर्वपापप्रशमनं दुष्टव्याधिविनाशनम् ॥ १॥
ग्रहपीडाप्रशमनं ग्रहारिष्टप्रभञ्जनम् ।
दुष्टमृत्युप्रशमनं दुष्टदारिद्र्यनाशनम् ॥ २॥
पुत्रपौत्रप्रजननं विवाहप्रदमिष्टदम् ।
चोरारिहं च जपतां अखिलेप्सितदायकम् ॥ ३॥
सावधानमना भूत्वा श्रुणु त्वं शुक सत्तम ।
अनेकजन्मसंसिद्धिलभ्यं मुक्तिफलप्रदम् ॥ ४॥
धनधान्यमहाराज्यसर्वसौभाग्यकल्पकम् ।
सकृत्स्मरणमात्रेण महालक्ष्मीः प्रसीदति ॥ ५॥
क्षीराब्धिमध्ये पद्मानां कानने मणिमण्टपे ।
तन्मध्ये सुस्थितां देवीं मनीषाजनसेविताम् ॥ ६॥
सुस्नातां पुष्पसुरभिकुटिलालकबन्धनाम् ।
पूर्णेन्दुबिम्बवदनां अर्धचन्द्रललाटिकाम् ॥ ७॥
इन्दीवरेक्षणां कामकोदण्डभ्रुवमीश्वरीम् ।
तिलप्रसवसंस्पर्धिनासिकालङ्कृतां श्रियम् ॥ ८॥
कुन्दकुड्मलदन्तालिं बन्धूकाधरपल्लवाम् ।
दर्पणाकारविमलकपोलद्वितयोज्ज्वलाम् ॥ ९॥
रत्नताटङ्ककलितकर्णद्वितयसुन्दराम् ।
माङ्गल्याभरणोपेतां कम्बुकण्ठीं जगत्प्रियाम् ॥ १०॥
तारहारिमनोहारिकुचकुम्भविभूषिताम् ।
रत्नाङ्गदादिललितकरपद्मचतुष्टयाम् ॥ ११॥
कमले च सुपत्राढ्ये ह्यभयं दधतीं वरम् ।
रोमराजिकलाचारुभुग्ननाभितलोदरीम् ॥ १२॥
पत्तवस्त्रसमुद्भासिसुनितंबादिलक्षणाम् ।
काञ्चनस्तम्भविभ्राजद्वरजानूरुशोभिताम् ॥ १३॥
स्मरकाह्लिकागर्वहारिजंभां हरिप्रियाम् ।
कमठीपृष्ठसदृशपादाब्जां चन्द्रसन्निभाम् ॥ १४॥
पङ्कजोदरलावण्यसुन्दराङ्घ्रितलां श्रियम् ।
सर्वाभरणसंयुक्तां सर्वलक्षणलक्षिताम् ॥ १५॥
पितामहमहाप्रीतां नित्यतृप्तां हरिप्रियाम् ।
नित्यं कारुण्यललितां कस्तूरीलेपिताङ्गिकाम् ॥ १६॥
सर्वमन्त्रमयां लक्ष्मीं श्रुतिशास्त्रस्वरूपिणीम् ।
परब्रह्ममयां देवीं पद्मनाभकुटुंबिनीम् ।
एवं ध्यात्वा महालक्ष्मीं पठेत् तत्कवचं परम् ॥ १७॥
ध्यानम् ।
एकं न्यंच्यनतिक्षमं ममपरं चाकुंच्यपदांबुजं
मध्ये विष्टरपुण्डरीकमभयं विन्यस्तहस्ताम्बुजम् ।
त्वां पश्येम निषेदुषीमनुकलंकारुण्यकूलंकष-
स्फारापाङ्गतरङ्गमम्ब मधुरं मुग्धं मुखं बिभ्रतीम् ॥ १८॥
अथ कवचम् ।
महालक्ष्मीः शिरः पातु ललाटं मम पङ्कजा ।
कर्णे रक्षेद्रमा पातु नयने नलिनालया ॥ १९॥
नासिकामवतादंबा वाचं वाग्रूपिणी मम ।
दन्तानवतु जिह्वां श्रीरधरोष्ठं हरिप्रिया ॥ २०॥
चुबुकं पातु वरदा गलं गन्धर्वसेविता ।
वक्षः कुक्षिं करौ पायूं पृष्ठमव्याद्रमा स्वयम् ॥ २१॥
कटिमूरुद्वयं जानु जघं पातु रमा मम ।
सर्वाङ्गमिन्द्रियं प्राणान् पायादायासहारिणी ॥ २२॥
सप्तधातून् स्वयं चापि रक्तं शुक्रं मनो मम ।
ज्ञानं बुद्धिं महोत्साहं सर्वं मे पातु पङ्कजा ॥ २३॥
मया कृतं च यत्किञ्चित्तत्सर्वं पातु सेन्दिरा ।
ममायुरवतात् लक्ष्मीः भार्यां पुत्रांश्च पुत्रिका ॥ २४॥
मित्राणि पातु सततमखिलानि हरिप्रिया ।
पातकं नाशयेत् लक्ष्मीः महारिष्टं हरेद्रमा ॥ २५॥
ममारिनाशनार्थाय मायामृत्युं जयेद्बलम् ।
सर्वाभीष्टं तु मे दद्यात् पातु मां कमलालया॥ २६॥
फलश्रुतिः ।
य इदं कवचं दिव्यं रमात्मा प्रयतः पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वरक्षां तु शाश्वतीम् ॥ २७॥
दीर्घायुष्मान् भवेन्नित्यं सर्वसौभाग्यकल्पकम् ।
सर्वज्ञः सर्वदर्शी च सुखदश्च शुभोज्ज्वलः ॥ २८॥
सुपुत्रो गोपतिः श्रीमान् भविष्यति न संशयः ।
तद्गृहे न भवेद्ब्रह्मन् दारिद्र्यदुरितादिकम् ॥ २९॥
नाग्निना दह्यते गेहं न चोराद्यैश्च पीड्यते ।
भूतप्रेतपिशाचाद्याः संत्रस्ता यान्ति दूरतः ॥ ३०॥
लिखित्वा स्थापयेद्यत्र तत्र सिद्धिर्भवेत् ध्रुवम् ।
नापमृत्युमवाप्नोति देहान्ते मुक्तिभाग्भवेत् ॥ ३१॥
आयुष्यं पौष्टिकं मेध्यं धान्यं दुःस्वप्ननाशनम् ।
प्रजाकरं पवित्रं च दुर्भिक्षर्तिविनाशनम् ॥ ३२॥
चित्तप्रसादजननं महामृत्युप्रशान्तिदम् ।
महारोगज्वरहरं ब्रह्महत्यादिशोधनम् ॥ ३३॥
महाधनप्रदं चैव पठितव्यं सुखार्थिभिः ।
धनार्थी धनमाप्नोति विवहार्थी लभेद्वधूम् ॥ ३४॥
विद्यार्थी लभते विद्यां पुत्रार्थी गुणवत्सुतम् ।
राज्यार्थी राज्यमाप्नोति सत्यमुक्तं मया शुक ॥ ३५॥
एतद्देव्याःप्रसादेन शुकः कवचमाप्तवान् ।
कवचानुग्रहेणैव सर्वान् कामानवाप सः ॥ ३६॥
इति लक्ष्मीकवचं ब्रह्मस्तोत्रं समाप्तम् ।
🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻🌻
🟧4⃣🪔 विश्वसार तांत्रोक्त श्री कमला कवचम् 🟧🪔🟧
अथ श्रीलक्ष्मीकवचप्रारम्भः ।
ईश्वर उवाच ।
अथ वक्ष्ये महेशानि कवचं सर्वकामदम् ।
यस्य विज्ञानमात्रेण भवेत्साक्षात्सदाशिवः ॥ १॥
ईश्वर बोले कि हे महेशानि! अब सर्वकामनापूरक लक्ष्मी कवच का
वर्णन सुनो, जिसके जानने से शिवसायुज्य की प्राप्ति होती है ॥ १॥
नार्चनं तस्य देवेशि मन्त्रमात्रं जपेन्नरः ।
स भवेत्पार्व्वतीपुत्रः सर्वशास्त्रेषु पारगः ॥ २॥
हे देवेशि! उस का जाप करने मात्र से ही जापक पार्वती पुत्र के समान
और सर्वशास्त्र में पारंगत हो जाता है ॥ २॥
विद्यार्थिना सदा सेव्या विशेषे विष्णुवल्लभा ॥ ३॥
जो विद्या की अभिलाषा करता है, उसे यत्नपूर्वक विष्णुप्रिया लक्ष्मीजी
की आराधना करनी चाहिए ॥ ३॥
अस्याश्चतुरक्षरिविष्णुवनितारूपायाः कवचस्य
श्रीभगवान् शिव ऋषिरनुष्टुप्च्छन्दो वाग्भवी देवता वाग्भवं बीजं
लज्जाशक्ती रमा कीलकं कामबीजात्मकं कवचं मम
सुपाण्डित्यकवित्वसर्वसिद्धिसमृद्धये जपे विनियोगः ॥ ४॥
इस चतुरक्षरी विष्णुवनिता कवच के ऋषि श्रीभगवान् शिव, अनुष्टुप्
छन्द, देवता वाग्भवी, ऐं बीज, लज्जा शक्ति, रमा कीलक है । इस
कवच का कामबीजात्मक, सुपाण्डित्य, कवित्व और सर्वसिद्धिसमृद्धिके
निमित्त विनियोग किया जाता है ॥ ४॥
ऐङ्कारी मस्तके पातु वाग्भवी सर्वसिद्धिदा ।
ह्रीं पातु चक्षुषोर्म्मध्ये चक्षुर्युग्मे च शाङ्करी ॥ ५॥
ऐंकारी हमारे मस्तक की रक्षा करे, संपूर्ण सिद्धि देनेवाली वाग्भवी
ह्रीं हमारे दोनों नेत्रों के मध्य की और शांकरी हमारे दोनों नेत्रों की
रक्षा करे ॥ ५॥
जिह्वायां मुखवृत्ते च कर्णयोर्गण्डयोर्नसि ।
ओष्ठाधरे दन्तपङ्क्तौ तालुमूले हनौ पुनः ।
पातु मां विष्णुवनिता लक्ष्मीः श्रीवर्णरूपिणी ॥ ६॥
वर्णरूपिणी विष्णुवनिता लक्ष्मी हमारी जिह्वा, मुखमण्डल, दोनों कानों,
नासिका, ओष्ठ, अधर, दंतपंक्ति, तालुमूल (तालुआ) और ठोड़ी की
रक्षा करे ॥ ६॥
कर्णयुग्मे भुजद्वन्द्वे स्तनद्वन्द्वे च पार्व्वती ।
हृदये मणिबन्धे च ग्रीवायां पार्श्वयोः पुनः ।
सर्वाङ्गे पातु कामेशी महादेवी समुन्नतिः ॥ ७॥
पार्वतीनामक लक्ष्मी हमारे दोनों कानों की, दोनों भुजाओं, दोनों स्तनों,
हृदय, मणिबंध, गरदन और पार्श्व की रक्षा करे, कामेशी
महादेवी और समुन्नति हमारे संपूर्ण अंगों की रक्षा करे ॥ ७॥
व्युष्टिः पातु महामाया उत्कृष्टिः सर्वदावतु ।
सन्धिं पातु सदा देवी सर्वत्र शम्भुवल्लभा ॥ ८॥
व्युष्टि, महामाया और उत्कृष्टि सदा हमारी रक्षा करे । देवी
शंभुवल्लभा सर्वत्र सदा हमारे संधि की रक्षा करे ॥ ८॥
वाग्भवी सर्वदा पातु पातु मां हरिगेहिनी ।
रमा पातु सदा देवी पातु माया स्वराट् स्वयम् ॥ ९॥
सरस्वती, हरिगेहिनी, रमा व माया सदा हमारी रक्षा करे ॥ ९॥
सर्वाङ्गे पातु मां लक्ष्मीर्विष्णुमाया सुरेश्वरी ।
विजया पातु भवने जया पातु सदा मम ॥ १०॥
विष्णुमाया सुरेश्वरी लक्ष्मी हमारे संपूर्ण अंगों की रक्षा करे,
विजया हमारे घर की सदा रक्षा करे और जया हमारी रक्षा करे ॥ १०॥
शिवदूती सदा पातु सुन्दरी पातु सर्वदा ।
भैरवी पातु सर्वत्र भैरूण्डा सर्वदाऽवतु ॥ ११॥
शिवदूती, सुंदरी, भैरवी और भैरूण्डा सभी स्थानों में सदा हमारी
रक्षा करे ॥ ११॥
त्वरिता पातु मां नित्यमुग्रतारा सदाऽवतु ।
पातु मां कालिका नित्यं कालरात्रिः सदाऽवतु ॥ १२॥
त्वरिता, उग्रतारा, कालिका और कालरात्रि प्रतिदिन सदा हमारी रक्षा करे
॥ १२॥
नवदुर्गा सदा पातु कामाख्या सर्वदावतु ।
योगिन्यः सर्वदा पातु मुद्राः पातु सदा मम ॥ १३॥
नवदुर्गा, कामाख्या और योगिनीगण व मुद्रासमूह सदा हमारी रक्षा करे
॥ १३॥
मातरः पातु देव्यश्च चक्रस्था योगिनीगणाः ।
सर्वत्र सर्वकार्येषु सर्वकर्म्मसु सर्वदा ॥
पातु मां देवदेवी च लक्ष्मीः सर्वसमृद्धिदा ॥ १४॥
मातृदेवीगण, चक्र की योगिनीगण और संपूर्ण समृद्धि देने वाली
देवदेवी लक्ष्मी सदा हमारी रक्षा करे ॥ १४॥
इति ते कथितं दिव्यं कवचं सर्वसिद्धये ।
यत्र तत्र न वक्तव्यं यदीच्छेदात्मनो हितम् ॥ १५॥
इसप्रकार मैंने तुम्हें सर्वसिद्धिका कारणस्वरूप अत्युत्तम दिव्य लक्ष्मी
कवच सुनाया । जो इससे लाभ उठाना चाहते हैं, उन्हें यह किसी को
नहीं बताना चाहिए ॥ १५॥
शठाय भक्तिहीनाय निन्दकाय महेश्वरि ।
न्यूनाङ्गे अतिरिक्ताङ्गे दर्शयेन्न कदाचन ॥ १६॥
हे महेश्वरि! जो प्राणी भक्तिविहीन तथा निंदक है, जो स्थूल अंगवाला
हो, या किसी भी अंग से हीन हो, उसके निकट प्राणांत का अवसर आनेपर
भी यह कवच उजागर नहीं करना चाहिए ॥ १६॥
न स्तवं दर्शयेद्दिव्यं सन्दर्श्य शिवहा भवेत् ॥ १७॥
दुरात्मा मनुष्यों के निकट कभी इस स्तोत्र को प्रकट न करें, जो प्रकट
करता है, वह शिवहत्या का दोषी होता है ॥ १७॥
कुलीनाय महोच्छ्राय दुर्गाभक्तिपराय च ।
वैष्णवाय विशुद्धाय दद्यात्कवचमुत्तमम् ॥ १८॥
जो मनुष्य कुलीन, उन्नतीमान्, दुर्गाभक्त, विष्णुभक्त और विशुद्धचित
है, उसको ही यह अत्युत्तम दिव्य कवच दान करना चाहिए ॥ १८॥
निजशिष्याय शान्ताय धनिने ज्ञानिने तथा ।
दद्यात्कवचमित्युक्तं सर्वतन्त्रसमन्वितम् ॥ १९॥
शान्तशील अपने शिष्य को, भक्त को और ज्ञानी को ही यह कवच
प्रदान किया जाना चाहिए और किसी को भी दान नहीं करना चाहिए ॥ १९॥
विलिख्य कवचं दिव्यं स्वयम्भुकुसुमैः शुभैः ।
स्वशुक्रैः परशुक्रैश्च नानागन्धसमन्वितैः ॥ २०॥
गोरोचनाकुङ्कुमेन रक्तचन्दनकेन वा ।
सुतिथौ शुभयोगे वा श्रवणायां रवेर्दिने ॥ २१॥
अश्विन्यांकृत्तिकायांवाफल्गुन्यांवामघासु च ।
पूर्व्वभाद्रपदायोगे स्वात्यां मङ्गलवासरे ॥ २२॥
विलिखेत्प्रपठेत्स्तोत्रं शुभयोगे सुरालये ।
आयुष्मत्प्रीतियोगे च ब्रह्मयोगे विशेषतः ॥ २३॥
इन्द्रयोगे शुभयोगे शुक्रयोगे तथैव च ।
कौलवे बालवे चैव वणिजे चैव सत्तमः ॥ २४॥
शुभतिथि को, शुभयोग में, श्रवण नक्षत्र में, रविवार को
अश्विनी नक्षत्र में, कृत्तिका नक्षत्र में, फाल्गुनी नक्षत्र में,
मघा नक्षत्र में, पूर्वभाद्रपद नक्षत्र में, स्वाति नक्षत्र में,
मंगलवार को, विशेषकर के ब्रह्मयोग में, इंद्रयोग में, शुभयोग
में, शुक्रयोग में, कौलव, बालव और वाणिजकरण योग के इन सब
दिनों में स्वयम्भू कुसुम, गोरोचन, कुंकुम, लाल चंदन अथवा
अत्युत्तम गन्धद्रव्य से इस दिव्य कवच को लिखकर इसकी पूजा करने
से दीर्घायु और श्री की वृद्धि होती है ॥ २०॥२१॥२२॥२३॥२४॥
शून्यागारे श्मशाने वा विजने च विशेषतः ।
कुमारीं पूजयित्वादौ यजेद्देवीं सनातनीम् ॥ २५॥
सूने घर, श्मशान अथवा एकांत स्थान में कुमारी पूजा कर के,
फिर सनातनी देवी लक्ष्मी की पूजा करनी चाहिए ॥ २५॥
मत्स्यमांसैः शाकसूपः पूजयेत्परदेवताम् ।
घृताद्यैः सोपकरणैः पूपसूपैर्व्विशेषतः ॥ २६॥
ब्राह्मणान्भोजायित्वादौ प्रीणयेत्परमेश्वरीम् ॥ २७॥
मत्स्य, मांस, सूप (दाल), शाक, पिट्ठि, घृत उपकरण (सामग्री)
आदि अनेक प्रकार के द्रव्यों से लक्ष्मी की आराधना करनी चाहिए । प्रथम
ब्राह्मणों को भोजन काराकर फिर देवी की प्रीती की साधना करनी चाहिए
॥ २६॥२७॥
बहुना किमिहोक्तेन कृते त्वेवं दिनत्रयम् ।
तदाधरेन्महारक्षां शङ्करेणाभिभाषितम् ॥ २८॥
अधिक और क्या कहा जाए । जो कोई तीन दिन इस प्रकार लक्ष्मी की आराधना
करता है, वह किसी भी प्रकार की विपत्ति में नहीं पड़ता तथा वह
संपूर्ण आपदाओं से सुरक्षित रहता है । शंकर द्वारा कथित यह
वाक्य कभी विफल होने वाला नहीं है ॥ २८॥
मारणद्वेषणादीनि लभते नात्र संशयः ।
स भवेत्पार्व्वतीपुत्रः सर्वशास्त्रविशारदः ॥ २९॥
जो मनुष्य भक्ति सहित लक्ष्मी की पूजा करके इस दिव्य कवच का पाठ
करता है, उसके मारणद्वेषादि मंत्रों की सिद्धि होती है पार्व्वती का
प्रियपुत्र और सर्वशास्त्रविशारद होता है ॥ २९॥
गुरूर्देवो हरः साक्षात्पत्नी तस्य हरप्रिया ।
अभेदेन भजेद्यस्तु तस्य सिद्धिरदूरतः ॥ ३०॥
जो मनुष्य एकान्तचित्त हो लक्ष्मीदेवी की आराधना करता है वह साक्षात
देवदेव शिव की सायुज्यमुक्ति को प्राप्त करता है, उसकी स्त्री हरप्रिया के
समान होती है और सिद्धि शीघ्र ही प्राप्त हो जाती है और यह कहना
भी अत्युक्ति नहीं होगा की उस पुरुष की सिद्धि निकटहि वर्तमान है ॥ ३०॥
सर्वदेवमयीं देवीं सर्वमन्त्रमयीं तथा ।
सुभक्त्या पूजयेद्यस्तु स भवेत्कमलाप्रियः ॥ ३१॥
जो मनुष्य भक्तिसहित सर्वदेवमयी और सर्वमन्त्रमयी लक्ष्मी देवी की
पूजा करता है, उस पर निःसंदेह देवी की कृपा होती है ।
रक्तपुष्पैस्तथा गन्धैर्वस्त्रालङ्करणैस्तथा ।
भक्त्या यः पूजयेद्देवीं लभते परमां गतिम् ॥ ३२॥
जो मनुष्य लाल फूल, लाल चंदन, वस्त्र और अलंकारादि से
भक्तिसहित लक्ष्मी देवी की पूजा करता है, वह अन्तकाल में मोक्ष पाता
है ॥ ३२॥
नारी वा पुरूषो वापि यः पठेत्कवचं शुभम् ।
मन्त्रसिद्धिः कार्यसिद्धिर्लभते नात्र संशयः ॥ ३३॥
जो स्त्री या पुरूष इस कल्याण करनेवाले कवच का पाठ करते हैं,
वह निःसंदेह मंत्रसिद्धि और कार्यसिद्धि प्राप्त करते हैं ॥ ३३॥
पठति य इह मर्त्यो नित्यमार्द्रान्तरात्मा ।
जपफलमनुमेयं लप्स्यते यद्विधेयम् ।
स भवति पदमुच्चैः सम्पदां पादनम्रः ।
क्षितिपमुकुटलक्ष्मीर्लक्षणानां चिराय ॥ ३४॥
जो मनुष्य भक्ती से नित्य इस लक्ष्मी कवच का पाठ करता है, वह
निःसंदेह उत्तरोत्तर उन्नति करता है ॥ ३४॥
॥ इति विश्वसारतन्त्रोक्तं कमला लक्ष्मीकवचं।।
🌺🌺🌺🌺🌺🌺🌺🌺🌺
🌺 🙏🏻 जय माता दी 🙏 🌺
🌺 जय मां आदिशक्ति 🌺
🌺 मां के चरणों में स्वर्ग है। 🌺
🌺🌺🌺🌺🌺🌺🌺🌺🌺